मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ८

संहिता

यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा ।
तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥

पदपाठः

यत् । रो॒द॒सी॒ इति॑ । प्र॒ऽदिवः॑ । अस्ति॑ । भूम॑ । हेळः॑ । दे॒वाना॑म् । उ॒त । म॒र्त्य॒ऽत्रा ।
तत् । आ॒दि॒त्याः॒ । व॒स॒वः॒ । रु॒द्रि॒या॒सः॒ । र॒क्षः॒ऽयुजे॑ । तपुः॑ । अ॒घम् । द॒धा॒त॒ ॥

सायणभाष्यम्

रॊदसी हॆ द्यावापृथिव्यौ हॆ आदित्याः हॆ वसवः र्द्रियासः हॆ रुद्रपुत्राः मरुतः मर्त्यत्रा मर्त्यॆषु अश्विनॊः परिचारकॆषु दॆवानां यद्धॆळः क्रॊधः भूम महानस्ति तद्धॆळः तपुस्तापकं रक्षॊयुजॆ रक्षॊ-भिर्युक्ताय रक्षसां स्वामिनॆ प्रॆरकाय वा अघं आहन्तृ दधात कुरुत । अथवा रक्षॊयुजॆ रक्षॊभिर्युक्ताय यज्वनॆ अघमाहन्तृ कुरुत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः