मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ९

संहिता

य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् ।
ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥

पदपाठः

यः । ई॒म् । राजा॑नौ । ऋ॒तु॒ऽथा । वि॒ऽदध॑त् । रज॑सः । मि॒त्रः । वरु॑णः । चिके॑तत् ।
ग॒म्भी॒राय॑ । रक्ष॑से । हे॒तिम् । अ॒स्य॒ । द्रोघा॑य । चि॒त् । वच॑से । आन॑वाय ॥

सायणभाष्यम्

यॊ नरः रजसः समस्तलॊकस्य लॊकारजांस्युच्यन्तॆ इति यास्कॆनॊक्तत्वात् राजानौ ईं ऎतावश्विनौ ऋतुथा कालॆकालॆ विदधत्परिचरति तं मित्रॊवरुणश्च चिकॆतत् जानीयात् मित्रवरुणप्रभृतयॊदॆवा ऎनं विदु रित्यर्थः । किंच अयं परिचारकः गंभीराय महाबलाय रक्षसॆ राक्षसाय हॆतिं घातकमायुधं अस्य अस्यति क्षिपति प्रथमपुरुषस्य मध्यमपुरुषॆण व्यत्ययः द्रॊघायाभिद्रॊहात्मकाय आनवाय मनुष्य- संबन्धिनॆ वचसॆ चित् वचनायैव हॆतिमस्यति मनुष्याणामभिद्रॊहायैनमास्कन्दतीति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः