मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् ११

संहिता

आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् ।
दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥

पदपाठः

आ । प॒र॒माभिः॑ । उ॒त । म॒ध्य॒माभिः॑ । नि॒युत्ऽभिः॑ । या॒त॒म् । अ॒व॒माभिः॑ । अ॒र्वाक् ।
दृ॒ळ्हस्य॑ । चि॒त् । गोऽम॑तः । वि । व्र॒जस्य॑ । दुरः॑ । व॒र्त॒म् । गृ॒ण॒ते । चि॒त्र॒रा॒ती॒ इति॑ चित्रऽराती ॥

सायणभाष्यम्

हे अश्विनौ परमाभिरुत्कृष्टाभिः उतापि च मध्यमाभिरनुत्कृष्टाभिः अवमाभिः निकृष्टाभिश्च नियुद्भिः वाहैरर्वागस्मदभिमुखं आयातं दृह्ळस्य चित् दृह्ळापिधानस्यापि गोमतो गोयुक्तस्य व्रजस्य गोष्ठस्य दुरो द्वाराणि विवर्तं विवृणुतम् । किंच गृणने स्तुवते मह्यं चित्रराती विचित्रदानौ भवतं ॥ ११ ॥

क्वत्येत्येकादशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षं अत्रेयमनुक्रमणिका क्वत्यैकपदान्तं त्रैष्टुभमिति आवांसुम्नइत्येकादशी एकपदात्रिष्टुप् शिष्टास्त्रिष्टुभः आश्विनं त्वित्युक्तत्वात् अस्यापि सूक्तस्य अश्विनौ देवता प्रातरनुवाकाश्विनशस्त्रयोः त्रैष्टुभे छन्दसि विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः