मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् १

संहिता

क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् ।
आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥

पदपाठः

क्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् ।
आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥

सायणभाष्यम्

क्व कुत्र स्थितौ वल्गू रुचिरौ पुरुहूता बहुभिराहूतौ त्या तावश्विनौ नमस्वान् हविषा युक्तः नम आयुरित्यन्ननामसु पाठात् स्तोमः पंचद- शादिस्तोमः अद्य दूतो न प्रेरितोदूत इव अविदत् विंदेत् यः स्तोमः अर्वागस्मदभिमुखं नासत्यावश्विनौ आववर्त आवर्तयत् । हे अश्विनौ युवामस्य स्तोतुः मन्मन् स्तोत्रे प्रेष्ठा हि प्रियतमौ हि असथो भवतः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः