मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् ४

संहिता

ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ ।
प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥

पदपाठः

ऊ॒र्ध्वः । वा॒म् । अ॒ग्निः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । प्र । रा॒तिः । ए॒ति॒ । जू॒र्णिनी॑ । घृ॒ताची॑ ।
प्र । होता॑ । गू॒र्तऽम॑नाः । उ॒रा॒णः । अयु॑क्त । यः । नास॑त्या । हवी॑मन् ॥

सायणभाष्यम्

अग्निः वां युवयोर्यज्ञार्थं ऊर्ध्वः अस्थात् उदतिष्ठत् अध्वरेषु यज्ञेषु प्रैति समिद्धः आहवनीयं गच्छति च रातिः धनं हविः जूर्णिनी जूर्णिर्ज- वतेर्वेतियास्कनोक्तत्वात् घृताची घृतेनाक्ता उपस्तीर्णाभिघारितेत्यर्थः किं च होता उराणः उरुकुर्वाणः प्रगूर्तमनाः प्रकर्षेण उद्युक्तमनाः भवति यो होता नासत्यावश्विनौ हवीमन्नाह्वाने स्तोत्रे वा अयुक्त योजयति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः