मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् ६

संहिता

यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्याया॑ः ।
प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ॥

पदपाठः

यु॒वम् । श्री॒भिः । द॒र्श॒ताभिः॑ । आ॒भिः । शु॒भे । पु॒ष्टिम् । ऊ॒ह॒थुः॒ । सू॒र्यायाः॑ ।
प्र । वा॒म् । वयः॑ । वपु॑षे । अनु॑ । प॒प्त॒न् । नक्ष॑त् । वाणी॑ । सुऽस्तु॑ता । धि॒ष्ण्या॒ । वा॒म् ॥

सायणभाष्यम्

हे अश्विनौ युवं युवां दर्शताभिः दशनीयाभिराभिः श्रीमतां परिदृश्यमानाभिः श्रीभिः लक्ष्मीभिः कान्तिभिर्वा सूर्यायाः युवयोः पत्न्याः शुभे शोभनार्थं पुष्टिं पूर्तिं ऊहथुः प्रापयथः । किं च वां युवां वयोश्वा वपुषे शोभायै प्रानुपप्तन् प्रकर्षेणान्वपतन् । अपि च हे धिष्णया- स्तुत्यर्हावश्विनौ वां युवां सुष्टुता वाणी ऋषीणां स्तुतिः नक्षत व्याप्नोति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः