मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् ७

संहिता

आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहन्तु ।
प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥

पदपाठः

आ । वा॒म् । वयः॑ । अश्वा॑सः । वहि॑ष्ठाः । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । व॒ह॒न्तु॒ ।
प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ । इ॒षः । पृ॒क्षः । इ॒षिधः॑ । अनु॑ । पू॒र्वीः ॥

सायणभाष्यम्

हे नासत्या वां युवां वयो गन्तारः वहिष्ठाः वोह्ळृतमाः अश्वासो अश्वाः प्रयः सोमरूपमन्नमभि आ वहन्तु । वां युवयोः मनोजवाः मनोवेगोरथः पृक्षः संपर्चनीयः इषिधः एषणीयाः पूर्वीर्बह्वीः इषोन्नानि सोमान् अनुप्रासर्जि विसृष्टः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः