मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् ९

संहिता

उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा ।
शा॒ण्डो दा॑द्धिर॒णिन॒ः स्मद्दि॑ष्टी॒न्दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥

पदपाठः

उ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा ।
शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥

सायणभाष्यम्

उतापि च पुरयस्य पुरयनामकस्य स्वभूते ऋज्रे ऋजुगमने रघ्वी क्षिप्रगामिन्यौ वदवे मे अश्विनौ स्तुतिं कुर्वतो ममाभूतां सुमीह्ळे राज्ञि विद्यमानाः सन्तः शतं गावो ममाभूवन् पेरुके राज्ञि विद्यमानानि पक्वा पद्वान्यन्नानि ममासन् शांडश्च राजा हिरणिनः हिरण्यवतः स्मद्दिष्टीन् प्रशस्तदर्शनान् रथानश्वान्वा दश दशसंख्याकान् वशासः अनुगुणान् अभिषाचः शत्रूणामभिभावुकान् ऋष्वान् दर्शनीयान् पुरुषान् अश्विनोः स्तोतृभ्यो दात् ददातु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः