सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पन्था॑ गि॒रे दा॑त् ।
भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥
सम् । वा॒म् । श॒ता । ना॒स॒त्या॒ । स॒हस्रा॑ । अश्वा॑नाम् । पु॒रु॒ऽपन्थाः॑ । गि॒रे । दा॒त् ।
भ॒रत्ऽवा॑जाय । वी॒र॒ । नु । गि॒रे । दा॒त् । ह॒ता । रक्षां॑सि । पु॒रु॒ऽदं॒स॒सा॒ । स्यु॒रिति॑ स्युः ॥
नासत्या हे अश्विनौ वां युवयोर्गिरे गृणातीति गीः स्तोता तस्मै अश्वानां शता शतानि सहस्रा सहस्राणि पुरुपंथा नाम राजा संदात् संददाति । वीर हे वीरावश्विनौ द्विवचनस्य छुक् गिरे युवयोः स्तोत्रे भरद्वाजाय मह्यं अपि नु क्षिप्रं दात् ददातु । किं च हे पुरुदंससा बहुकर्माणावश्विनौ युवयोरनुग्रहात् रक्षांसि हता हतानि स्युः ॥ १० ॥