मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६३, ऋक् ११

संहिता

आ वां॑ सु॒म्ने वरि॑मन्त्सू॒रिभि॑ः ष्याम् ॥

पदपाठः

आ । वा॒म् । सु॒म्ने । वरि॑मन् । सू॒रिऽभिः॑ । स्या॒म् ॥

सायणभाष्यम्

हे अश्विनौ वरिमन् विस्तृते सुम्ने वां युवाभ्यां दत्ते सुखावहे धने जलाषं सुम्नविति सुखनामसु पाठात् सूरिभिर्विद्वद्भिः सह आसमन्तात् स्यां भवेयं ॥ ११ ॥

उदुश्रियइति षळृचं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रेष्टुभमुषोदेवताकं अनुकम्यते च-उदुश्रिये षळुषस्यं तु इति प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दसि आश्विनशस्त्रे चैतदादिके द्वे सूक्ते सुत्र्यते हि-उदुश्रियइतिसूक्तेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः