मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६४, ऋक् १

संहिता

उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुश॑न्तः ।
कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒गान्यभू॑दु॒ वस्वी॒ दक्षि॑णा म॒घोनी॑ ॥

पदपाठः

उत् । ऊं॒ इति॑ । श्रि॒ये । उ॒षसः॑ । रोच॑मानाः । अस्थुः॑ । अ॒पाम् । न । ऊ॒र्मयः॑ । रुश॑न्तः ।
कृ॒णोति॑ । विश्वा॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । अभू॑त् । ऊं॒ इति॑ । वस्वी॑ । दक्षि॑णा । म॒घोनी॑ ॥

सायणभाष्यम्

रोचमाना दीप्यमाना रुशन्तः शुक्लवर्णाः रुशदिति वर्णनामेति यास्कः उषसः श्रिये जगतः शोभायै जगद्व्याप्तुं वा अपामूर्मयो न उदक- संबन्धिनस्तरंगाइव उदस्थुः उत्तिष्ठन्ति । अनन्तरमेकवन्निगमः उषाः विश्वा विश्वानि स्थानानि सुपथा सुमार्गाणि सुगानि सुखेन गम्यानि कृणोति करोति अथ च मघोनी धनवत्युषाः वस्वी प्रशस्ता दक्षिणा समर्धयित्री चा भूत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः