मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६४, ऋक् २

संहिता

भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते॑ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् ।
आ॒विर्वक्ष॑ः कृणुषे शु॒म्भमा॒नोषो॑ देवि॒ रोच॑माना॒ महो॑भिः ॥

पदपाठः

भ॒द्रा । द॒दृ॒क्षे॒ । उ॒र्वि॒या । वि । भा॒सि॒ । उत् । ते॒ । शो॒चिः । भा॒नवः॑ । द्याम् । अ॒प॒प्त॒न् ।
आ॒विः । वक्षः॑ । कृ॒णु॒षे॒ । शु॒म्भमा॑ना । उषः॑ । दे॒वि॒ । रोच॑माना । महः॑ऽभिः ॥

सायणभाष्यम्

हे उषो देवि भद्रा कल्याणी ददृक्षे दृश्यसे उर्विया विस्तीर्णा च विभासि ते तव शोचिः शोचिषः जसोलुक् दीप्यमाना भानवोरश्मयः द्यामन्तरिक्षं उदपप्तन् उत्पतन्ति । किं च हे उषोदेवि महोभिस्तेजोभिः शुंभमाना शोभमाना दीप्यमाना रोचमाना वक्षः त्वदीयं रूपं आविष्कृणुषे प्रकटीकरोषि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः