मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६४, ऋक् ३

संहिता

वह॑न्ति सीमरु॒णासो॒ रुश॑न्तो॒ गावः॑ सु॒भगा॑मुर्वि॒या प्र॑था॒नाम् ।
अपे॑जते॒ शूरो॒ अस्ते॑व॒ शत्रू॒न्बाध॑ते॒ तमो॑ अजि॒रो न वोळ्हा॑ ॥

पदपाठः

वह॑न्ति । सी॒म् । अ॒रु॒णासः॑ । रुश॑न्तः । गावः॑ । सु॒ऽभगा॑म् । उ॒र्वि॒या । प्र॒था॒नाम् ।
अप॑ । ई॒ज॒ते॒ । शूरः॑ । अस्ता॑ऽइव । शत्रू॑न् । बाध॑ते । तमः॑ । अ॒जि॒रः । न । वोळ्हा॑ ॥

सायणभाष्यम्

अरुणासो लोहितवर्णाः रुशन्तो दीप्यमाना गावः रश्मयःकिरणा गाव इति रश्मि नामसु पाठात् सुभगां उर्विया उर्वीं विस्तीर्णां प्रथानां प्रथमानां सीमेनामुषोदेवतां वहन्ति सेयमुषो देवता शूरः अस्तेव वीरः क्षेप्तेव शत्रून् तमः अपेजते अपगमयति । वोह्ळा सेनायाः अजिरो न क्षिप्रगामी श्त्रून् यथा वा तथा तमांसि बाधते च ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः