सु॒गोत ते॑ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो ।
सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै॑ ॥
सु॒ऽगा । उ॒त । ते॒ । सु॒ऽपथा॑ । पर्व॑तेषु । अ॒वा॒ते । अ॒पः । त॒र॒सि॒ । स्व॒भा॒नो॒ इति॑ स्वऽभानो ।
सा । नः॒ । आ । व॒ह॒ । पृ॒थु॒ऽया॒म॒न् । ऋ॒ष्वे॒ । र॒यिम् । दि॒वः॒ । दु॒हि॒तः॒ । इ॒ष॒यध्यै॑ ॥
हे उषोदेवि पर्वतेषु उत दुर्गेष्वपि अवाते गमनसाधनरहिते देशे सुपथा सुपथानि मर्गाणि सुगा सुगानि सुखेन गम्यानि ते तव भवन्ति । स्वभानो हे स्वप्रकाश अपोन्तरिक्षं आकाशं आप इत्यन्तरिक्षनामसु पाठात् सामुद्रिकीरपोवा तरसि । पृथुयामन् पृथुरथे ऋष्वे दर्श- नीये देवो दुहितः अन्तरिक्षसुते है उषोदेवि सा त्वं इषयध्यै एषणीयं रयिं धनं नोस्मभ्यं आवह ॥ ४ ॥