मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६४, ऋक् ५

संहिता

सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ ।
त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू॑तौ मं॒हना॑ दर्श॒ता भू॑ः ॥

पदपाठः

सा । आ । व॒ह॒ । या । उ॒क्षऽभिः॑ । अवा॑ता । उषः॑ । वर॑म् । वह॑सि । जोष॑म् । अनु॑ ।
त्वम् । दि॒वः॒ । दु॒हि॒तः॒ । या । ह॒ । दे॒वी । पू॒र्वऽहू॑तौ । मं॒हना॑ । द॒र्श॒ता । भूः॒ ॥

सायणभाष्यम्

हे उषः सा स्वं वरं धनं मह्यमावह । या त्वं अवाता अमतिगता जोषं प्रीतिं अनु उक्षभिः अनडुद्भिरश्वैर्वा स्तोतृभ्योवरं वहसि । किं च हे दिवोदुहितः अन्तरिक्षसुते या त्वं देवी द्योतमाना पूर्वहूतौ प्रथमाह्वाने प्रातरनुवाके मंहना पूजनीया भवसि सा त्वं दर्शता दर्शनीया भूरिति योजना या दर्शताभूरित्यन्वये यद्बुतेन सामानाधिकरण्यात् भूरित्यस्य निघातो न स्यात् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः