मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६४, ऋक् ६

संहिता

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।
अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥

पदपाठः

उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।
अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥

सायणभाष्यम्

हे उषोदेवि ते तव व्युष्टौ सत्यां वयश्चित् पक्षिणोपि वसतेः निवासस्थानात् उदपप्तब् उत्पतन्ति ये पितुभाजो हविषां संभक्तारः अन्नस्यो- पार्जकावा पितुरित्यन्ननामसु पाठात् नरश्च तेपि चोत्पतन्ति किं च हे उषोदेवि त्वं अमा समीपे सते वर्तमानाय दाशुषे हविषां प्रदात्रे मर्त्याय भूरि प्रभूतं वामं धनं वहसि ॥ ६ ॥

एषास्येति षळृचं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं अनुक्रम्यतेच एषास्येति उषस्यंत्विति पूर्वसूक्ते उक्तवात् इदमप्युषोदेवताकं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः