मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६५, ऋक् १

संहिता

ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः ।
या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥

पदपाठः

ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒ऽजाः । क्षि॒तीः । उ॒च्छन्ती॑ । मानु॑षीः । अ॒जी॒ग॒रिति॑ ।
या । भा॒नुना॑ । रुश॑ता । रा॒म्यासु॑ । अज्ञा॑यि । ति॒रः । तम॑सः । चि॒त् । अ॒क्तून् ॥

सायणभाष्यम्

एषा स्या सा दिवोजाः दिवोजाता अतएव दुहिता दिवः पुत्र्युषा नोस्मदर्थं उच्छंती तमांसि वर्जयन्ती क्षितीः प्रजाः मानुषी रजीगः उद्गिरति जीगर्तिर्गिरतिकर्मावेति यास्कः प्रकाशयतीति यावत् या रुशता दीप्यमानेन भानुना युक्ता राम्यासु याम्यासु रात्रिषु रेफयका- रयोर्व्यत्ययः अक्तून् नक्षत्रादि तेजांसि तमसश्चित् तमांसि च तिरस्तिरस्कुर्वती अज्ञायि दृश्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः