मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६५, ऋक् ४

संहिता

इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।
इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥

पदपाठः

इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न॑म् । अस्ति॑ । इ॒दा । वी॒राय॑ । दा॒शुषे॑ । उ॒ष॒सः॒ ।
इ॒दा । विप्रा॑य । जर॑ते । यत् । उ॒क्था । नि । स्म॒ । माऽव॑ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥

सायणभाष्यम्

हे उषः इदाहि इदानीमेव वोयुष्माकं विधते परिचरते दातुं रत्नं धनमस्ति इदाहि इदानीमेव वीराय प्रेरयित्रे हविषां दाशुषे यजमानाय दातुं वोरत्नमस्ति इदाहि इदानीमेव विप्राय प्राज्ञाय जरते स्तुवते दातुं वोरत्नमस्ति यद्यस्मिन् विप्रे उक्था उक्थनामकानि स्तोत्राणि विद्यन्ते मावते मत्सदृशाय यजमानाय तद्रत्नं निवहथ पुराचित् पुरापि रत्नं मह्यं दत्तं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः