मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६५, ऋक् ६

संहिता

उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि ।
सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥

पदपाठः

उ॒च्छ । दि॒वः॒ । दु॒हि॒त॒रिति॑ । प्र॒त्न॒ऽवत् । नः॒ । भ॒र॒द्वा॒ज॒ऽवत् । वि॒ध॒ते । म॒घो॒नि॒ ।
सु॒ऽवीर॑म् । र॒यिम् । गृ॒ण॒ते । रि॒री॒हि॒ । उ॒रु॒ऽगा॒यम् । अधि॑ । धे॒हि॒ । श्रवः॑ । नः॒ ॥

सायणभाष्यम्

हे दिवो दुहितरुषः प्रत्नवत् पुरातनेभ्य इव नोस्मदर्थं अच्छ तमांसि वर्जय । हे मघोनि भरद्वाजवत् विधते परिचरते भरद्वाजवदिति वचनात् अन्योप्यस्ति भरद्वाजः तथाच ब्राह्मणंप्राणो वै भ्रद्वाजवदिति । गृणते स्तुतिं कर्वते मह्यं सुवीरं कल्याणं पुत्रपैत्रादियुक्तं रयिं धनं रिरीहि देहि । किं च नोस्मभ्यं उरुगायं बहुभिर्गं तव्यं श्रवोन्नं अधिधेहि अधिकंप्रयच्छ ॥ ६ ॥

वपुर्न्वित्येकादशर्चं पंचमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मारुतं तथा चानुक्रम्यते-वपुन्वंकादश मारुतमिति व्यूह्ळे दशरात्रे षष्ठेन्याग्निमारुते इदं सूक्तं मारुतनिविद्धानं सूत्रितं चहविष्पांतं वपुर्नुतदिति वैश्वदेवे पर्वणि मारुतसप्तकपालस्य प्रचित्रमर्कमिति याज्या प्रचित्रमर्कं गृणते नवानुयाज्या इति एकादशिने मारुते पशौ प्रचित्रमर्कमित्येषैव याज्या सूत्रितं च-प्रचित्रमर्कं गृणते तुरायाराइवे दचरमाअहेवेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः