मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् २

संहिता

ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धन्त॑ ।
अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥

पदपाठः

ये । अ॒ग्नयः॑ । न । शोशु॑चन् । इ॒धा॒नाः । द्विः । यत् । त्रिः । म॒रुतः॑ । व॒वृ॒धन्त॑ ।
अ॒रे॒णवः॑ । हि॒र॒ण्यया॑सः । ए॒षा॒म् । सा॒कम् । नृ॒म्णैः । पौंस्ये॑भिः । च॒ । भू॒व॒न् ॥

सायणभाष्यम्

ये मरुतः इधानाः अग्रयो न समिध्यमानाः अग्रयइव शोशुचन् दीप्यन्ते यत् ये मरुतः द्विर्द्विगुणं त्रिस्त्रिगुणं च ववृधन्त इच्छानुरूपं वर्धन्ते । संहितायां दीर्घश्छान्दसः एषां मरुतां रथाः अरेणवो रेणुरहिताः हिरण्ययासो हिरण्मयालंकाराश्च भवन्ति । ते मरुतः नृम्णैर्धनैः पौंस्येभिर्बलैश्च साकं सार्धं भवन् प्रादर्भवन्ति । तथा च निगमान्तरं-ये पृषतीभिरृष्टिभिरिति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः