मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ३

संहिता

रु॒द्रस्य॒ ये मी॒ळ्हुष॒ः सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै ।
वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्नि॑ः सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥

पदपाठः

रु॒द्रस्य॑ । ये । मी॒ळ्हुषः॑ । सन्ति॑ । पु॒त्राः । यान् । चो॒ इति॑ । नु । दाधृ॑विः । भर॑ध्यै ।
वि॒दे । हि । मा॒ता । म॒हः । म॒ही । सा । सा । इत् । पृश्निः॑ । सु॒ऽभ्वे॑ । गर्भ॑म् । आ । अ॒धा॒त् ॥

सायणभाष्यम्

मीह्ळुषः सेक्तुः रुद्रस्य पुत्रा ये मरुतः सन्ति दाधृविः धरित्री पृश्निरन्तरिक्षं याँश्चोनु याँश्च मरुतोनभरध्यै भर्तुं क्षमा भवति विदेहि सर्व- ज्ञाताहि महो महतामेषां माता सा पृश्निर्मही महती किं च सा पृश्निः सुग्वे नृणां सम्यक् भवनाय गर्भमुदकं आधात् आदधाति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः