मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ५

संहिता

म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः ।
न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥

पदपाठः

म॒क्षु । न । येषु॑ । दो॒हसे॑ । चि॒त् । अ॒याः । आ । नाम॑ । घृ॒ष्णु । मारु॑तम् । दधा॑नाः ।
न । ये । स्तौ॒नाः । अ॒यासः॑ । म॒ह्ना । नु । चि॒त् । सु॒ऽदानुः॑ । अव॑ । या॒स॒त् । उ॒ग्रान् ॥

सायणभाष्यम्

येषु प्रसिद्धेषु मरुत्सु धृष्णु धर्षकं मारुतं नाम मरुत्संज्ञकं शस्त्रं आदधानाः उच्चारयन्तः अयाः उपगच्छन्तः स्तोतारः मक्षु क्षिप्रं दोहसे कामान् दोग्धुं क्षमा भवन्ति । नेति संप्रत्यर्थे ये स्तोनाः स्तेनास्तिरोहितावा स्तोतुर्धनानामपहर्तारः अयासो गन्तारो भवन्ति । मह्ना महत्वेन युक्ताश्च भवन्ति । उग्रान् तान् क्रुद्धान् सुदानुः शोभनहविर्दानो यजमानः अवयासत् अवयजते अपगतक्रोधान्करोति नेति संप्रत्यर्थे ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः