मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ६

संहिता

त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके॑ ।
अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ॥

पदपाठः

ते । इत् । उ॒ग्राः । शव॑सा । धृ॒ष्णुऽसे॑नाः । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
अध॑ । स्म॒ । ए॒षु॒ । रो॒द॒सी । स्वऽशो॑चिः । आ । अम॑वत्ऽसु । त॒स्थौ॒ । न । रोकः॑ ॥

सायणभाष्यम्

ते मरुतः उग्राः शवसा बलेन वेगेन युक्ताः धृष्णुषेणा धर्षकसेनाः सुमेके सुरूपे उभे रोदसी द्यावापृथिव्यौ युजन्त योजयन्ति वृष्ट्या पृथिवीं तर्फ्यन्तीत्यभिप्रायः । अध स्म अपि च एषु मरुत्सु रोदसी रुद्रस्य पत्नी माध्यमिकीवाक् स्वशोचिः स्क्दीप्तिर्वर्तते अमवत्सु बलवत्सु तेषु रोको दीप्तिर्बाधको वा नातस्थौ नतिष्ठति न निःसरत्येवेत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः