मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ८

संहिता

नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥

पदपाठः

न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु॑तः । यम् । अव॑थ । वाज॑ऽसातौ ।
तो॒के । वा॒ । गोषु॑ । तन॑ये । यम् । अ॒प्ऽसु । सः । व्र॒जम् । दर्ता॑ । पार्ये॑ । अध॑ । द्योः ॥

सायणभाष्यम्

हे मरुतः वाजसातौ संग्रामे यमवथ रक्षथ । अस्य जनस्य वर्ता प्रेरको नास्ति अस्य तरुता नु हिंसिता च नास्ति अध अपि च तोके पुत्रे तनये पौत्रे धने वा गोषु वा अप्सु वा निमित्तभूतेषु यमवथ पार्ये संग्रामे द्योः दीप्तस्यापि विजिगीषोर्वा शत्रोः व्रजं गवां संघं दर्ता दार- यिता भवति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः