मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ९

संहिता

प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् ।
ये सहां॑सि॒ सह॑सा॒ सह॑न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्य॑ः ॥

पदपाठः

प्र । चि॒त्रम् । अ॒र्कम् । गृ॒ण॒ते । तु॒राय॑ । मारु॑ताय । स्वऽत॑वसे । भ॒र॒ध्व॒म् ।
ये । सहां॑सि । सह॑सा । सह॑न्ते । रेज॑ते । अ॒ग्ने॒ । पृ॒थि॒वी । म॒खेभ्यः॑ ॥

सायणभाष्यम्

हे अग्रे गृणते शब्दं कुर्वते स्तूयमानाय वा तुराय त्वरिताय स्वतवसे स्वभूतबलाय मारुताय मरुतां गणाय चित्रं दर्शनीयं अर्कमन्नं हविः स्वधा अर्क इत्यन्ननामसु पाठात् प्रभरध्वं त्वत्सहायभूता ऋत्विजः त्वं च सर्वे यूयं प्रभरत । यथा लोके बहुष्वेककार्यकरेषु मुख्यमेकं संबोध्य यूयमेवं कुरुतेति प्रार्थना तद्वदत्रापि मुख्यमग्निमेकमेव संबोध्य प्रभरध्वमिति बहुवचनप्रयोगः ये मरुतः सहांसि शत्रूणां बलानि सहसा बलेन सहन्ते अभिभवन्ति । मखेभ्यो मंहनीयेभ्यो मरुद्भ्यो भयात् पृथिवी रेजते कंपते । मारुतायेति तद्धितवृत्तावन्तभूतानामपि मरुतां बुद्व्या प्रविभागात् य इति प्रत्यवमर्शः यथा महाभाष्ये अथ शब्दानुशासनं केषां शब्दानामिति यथा वा लोके राजपुरुषइत्युक्ते कस्य राज्ञ इति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः