मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् १०

संहिता

त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः ।
अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥

पदपाठः

त्विषि॑ऽमन्तः । अ॒ध्व॒रस्य॑ऽइव । दि॒द्युत् । तृ॒षु॒ऽच्यव॑सः । जु॒ह्वः॑ । न । अ॒ग्नेः ।
अ॒र्चत्र॑यः । धुन॑यः । न । वी॒राः । भ्राज॑त्ऽजन्मानः । म॒रुतः॑ । अधृ॑ष्टाः ॥

सायणभाष्यम्

मरुतः अध्वरस्येव यज्ञस्येव दिद्युत् द्योतमानाः तृषुच्यवसः क्षिप्रगमनाः अग्नेः जुह्वो न रश्मय इव त्विषीमन्तो दीप्तिमन्तः अर्चत्रयोर्च- नीयाः धुनयो न सपत्नान् कंपयन्त इव वीराः शूराः भ्राजज्जन्मानः दीप्तशरीराः अधृष्टाः परैरनभिभूताश्च भवन्ति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः