मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् १

संहिता

विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ ।
सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभि॒ः स्वैः ॥

पदपाठः

विश्वे॑षाम् । वः॒ । स॒ताम् । ज्येष्ठ॑ऽतमा । गीः॒ऽभिः । मि॒त्रावरु॑णा । व॒वृ॒धध्यै॑ ।
सम् । या । र॒श्माऽइ॑व । य॒मतुः॑ । यमि॑ष्ठा । द्वा । जना॑न् । अस॑मा । बा॒हुऽभिः॑ । स्वैः ॥

सायणभाष्यम्

विश्वेषां सतां मध्ये ज्येष्ठतमा ज्येष्ठतमौ मित्रावरुणौ वः वां गीर्भिः स्तुतिभिः ववृधध्यै वर्धयितुं प्रवृत्तोस्मि या यौ द्वा द्वौ सहितौ असमा विषमौ त्रिरश्रिंहन्तिचतुरश्रिरुग्रइति निगमान्तरेण साम्यं दर्शितं यमिष्ठा यन्तृतमौ स्वै रात्मीयै र्बाहुभिः रश्मेव रश्मिनेव अश्वान् जनान् संयमतुः संगच्छतः बाहुभिरिति बहुवचनं पूजार्थं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः