मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् २

संहिता

इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ ।
य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥

पदपाठः

इ॒यम् । मत् । वा॒म् । प्र । स्तृ॒णी॒ते॒ । म॒नी॒षा । उप॑ । प्रि॒या । नम॑सा । ब॒र्हिः । अच्छ॑ ।
य॒न्तम् । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अधृ॑ष्टम् । छ॒र्दिः । यत् । वा॒म् । व॒रू॒थ्य॑म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥

सायणभाष्यम्

हे मित्रावरुणौ वां युवां मत् मम इयं मनीषा स्तुतिः प्रस्तृणीते प्रच्छादयति । प्रिया हे प्रियौ युवां नमसा अन्नेन हविषा सहोपगच्छति च । युवयोः बर्हिः यज्ञमच्छ अभिगच्छति च । हे मित्रावरुणौ नोस्मभ्यं अधृष्टं अनभिभूतं छर्दिर्गृहं यंतं प्रयच्छतं हे सुदानू शोभनदानौ घां युवयोः संबन्धि युवाभ्यां देयं यद्गृहं वरूथ्यं शीतवातातपाना बारयितु भवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः