मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् ३

संहिता

आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना ।
सं याव॑प्न॒ःस्थो अ॒पसे॑व॒ जना॑ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥

पदपाठः

आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽश॒स्ति । उप॑ । प्रि॒या । नम॑सा । हू॒यमा॑ना ।
सम् । यौ । अ॒प्नः॒ऽस्थः । अ॒पसा॑ऽइव । जना॑न् । श्रु॒धि॒ऽय॒तः । चि॒त् । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥

सायणभाष्यम्

हे मित्रावरुणौ सुशस्ति शोभनशंसनं नमसा अन्नेन हविषा स्तोत्रेणा हूयमाना स्तूयमानौ प्रिया विश्वस्य प्रियौ उपायातं उपागच्छतम् । यौ महित्वा महत्वेनयुक्तौ युवां श्रुधीयतः श्रुधिगन्नं यशो वा आत्मनइच्छतो जनान् अप्नःस्थः कर्मण्यधिकृतः पुरुषः अपः अप्नइति कर्मनामसु पाठात् अपसेव कर्मणेव संयतथः संगच्छथः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः