मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् ५

संहिता

विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषा॑ः ।
परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥

पदपाठः

विश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ ।
परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥

सायणभाष्यम्

विश्वे सर्वे देवासो देवाः सजोषाः परस्परं प्रीतियुक्ताः यत् यौ वां युवां मंहना महत्वेन मंदमानाः स्तुवन्तः क्षत्रं बलमदधुः धत्तवन्तः । किं च यत् यौ युवां उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यौ परिभूथः परिभवथः । तयोर्युवयोः अदब्धासः अहिंसिताः अमूराः अमूढाः स्पशः रश्मयश्चरा वा सन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः