मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् ६

संहिता

ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः ।
दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥

पदपाठः

ता । हि । क्ष॒त्रम् । धा॒रये॑थे॒ इति॑ । अनु॑ । द्यून् । दृं॒हेथे॒ इति॑ । सानु॑म् । उ॒प॒मात्ऽइ॑व । द्योः ।
दृ॒ळ्हः । नक्ष॑त्रः । उ॒त । वि॒श्वऽदे॑वः । भूमि॑म् । आ । अ॒ता॒न् । द्याम् । धा॒सिना॑ । आ॒योः ॥

सायणभाष्यम्

ता तौ मित्रावरुणौ युवां अनुद्यून् दिवसेदिवसे क्षत्रं बलं धारयेथेहि । द्योरन्तरिक्षस्य सानुं समुच्छ्रितप्रदेशं मेघं सूर्यं वा दृंहेथे दृढीकुरुतम् । उपमादिव उपमीयते प्रक्षीप्यते इत्युपमात् स्थूणा सा यथावत्सं धारयति तद्वत् इत्यर्थः । दृह्ळः युवाभ्यां दृढीकृतश्च मेघो नक्षत्रः अन्तरिक्षं व्याप्नुवानः उत अपि च विश्वदेवः सूर्यो भूमिं द्यां दिवं च आयोर्मनुष्यस्य द्रुह्यव आयव इति मनुष्यनामसु पाठात् धासिना अन्नेन हविषा क्षुत् धासिरित्यन्ननामसु पाठात् आप्यायितः सन् आ अतान् आतनोति युवाभ्यां दृढीकृ तएव ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०