मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् ७

संहिता

ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ ।
न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥

पदपाठः

ता । वि॒ग्रम् । धै॒थे॒ इति॑ । ज॒ठर॑म् । पृ॒णध्यै॑ । आ । यत् । सद्म॑ । सऽभृ॑तयः । पृ॒णन्ति॑ ।
न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः॑ । अवा॑ताः । वि । यत् । पयः॑ । वि॒श्व॒ऽजि॒न्वा॒ । भर॑न्ते ॥

सायणभाष्यम्

ता तौ मित्रावरुणौ युवां विग्रं प्राज्ञं यजमानं विप्रः विग्र इति मेधाविनामसु पाठात् धैथे धारयथः । जठरमुदरं पृणध्यै सोमेन पूरयितुं यद्यदा सभृतयः सहभ्रियमाणा ऋत्विजः सद्म यज्ञसदनं आपृणन्ति आपूरयन्ति । विश्वजिन्वा हे विश्वजिन्वानौ यद्यदा पयो जलं भवद्भ्यां प्रहितं तदा युवतयो नद्यो दिशो वा न मृष्यन्ते रजसानाभिभूयन्ते । अवाताः अशुष्का श्चविरमन्ते विभूतिं धारयन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०