मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् ९

संहिता

प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ ।
न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥

पदपाठः

प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ ।
न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥

सायणभाष्यम्

हे मित्रावरुणौ वां युवयोः प्रिया प्रियाणि धाम धामानि कर्माणि युवधिता युवाभ्यां विहितानि यत् ये यजन्तौ जना स्पूर्धन् स्पर्धमानाः प्रमिनन्ति हिंसन्ति । ये च देवासो देवाः ओहसा वहनसाधनेन स्तोत्रेण युज्यन्ते मर्ता मनुष्याश्च ओहसा न युज्यन्ते ये च अप्यः अपः कर्म तद्वन्तः अयज्ञसाचः यज्ञयुक्ता न वृथा कर्माणि कुर्वन्त इत्यर्थः । ये च न पुत्राः पृणन्तीतिपुत्राः न पुत्राः अपृणन्त इत्यर्थः तान् सर्वा- न्विचयिष्टमित्यनुषज्यते ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०