मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् १०

संहिता

वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः ।
आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥

पदपाठः

वि । यत् । वाच॑म् । की॒स्तासः॑ । भर॑न्ते । शंस॑न्ति । के । चि॒त् । नि॒ऽविदः॑ । म॒ना॒नाः ।
आत् । वा॒म् । ब्र॒वा॒म॒ । स॒त्यानि॑ । उ॒क्था । नकिः॑ । दे॒वेभिः॑ । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥

सायणभाष्यम्

यद्यदा कीस्तासो मेधाविनः उद्गातारः उशिजःकीस्तास इतिमेधाविनामसु पाठात् वाचं स्तुतिं विभरन्ते पृथगुच्चारयन्ति तदा केचिद्वह्वृ- चाः मनानाः अग्र्यादींस्तुवन्तः निविदः शंसन्ति आत् तथा सति वां युवाभ्यां सत्यान्युक्थानि स्तोत्राणि वयं ब्रवाम महित्वा महत्वेन देवेभिरन्यैर्देवैः सह नकिर्यतथः न गच्छथः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०