मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् २

संहिता

ता हि श्रेष्ठा॑ दे॒वता॑ता तु॒जा शूरा॑णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् ।
म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ॥

पदपाठः

ता । हि । श्रेष्ठा॑ । दे॒वऽता॑ता । तु॒जा । शूरा॑णाम् । शवि॑ष्ठा । ता । हि । भू॒तम् ।
म॒घोना॑म् । मंहि॑ष्ठा । तु॒वि॒ऽशुष्मा॑ । ऋ॒तेन॑ । वृ॒त्र॒ऽतुरा॑ । सर्व॑ऽसेना ॥

सायणभाष्यम्

हे इन्द्रावरुणौ ता तौ प्रसिद्धौ युवां श्रेष्ठा श्रेष्टौ देवताता देवतातौ यज्ञे इष्टिर्देवतेति यज्ञनामसु पाठात् तुजा धनानां प्रेरकौ हि भूतं भवतम् । किं च ता तौ हि युवां शूराणां मध्ये शविष्ठा अतिशयेन बलवन्तौ भूतं किं च मघोनां दानवतां मंहिष्ठा दातृतमौ तुविशुष्मा बहुबलौ ऋतेन सत्येन वृत्रतुरा शत्रूणां हिंसकौ सर्वसेना कृत्स्नसेनौ च भूतमिति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११