मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ३

संहिता

ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना ।
वज्रे॑णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्र॑ः ॥

पदपाठः

ता । गृ॒णी॒हि॒ । न॒म॒स्ये॑भिः । शू॒षैः । सु॒म्नेभिः । इन्द्रा॒वरु॑णा । च॒का॒ना ।
वज्रे॑ण । अ॒न्यः । शव॑सा । हन्ति॑ । वृ॒त्रम् । सिस॑क्ति । अ॒न्यः । वृ॒जने॑षु । विप्रः॑ ॥

सायणभाष्यम्

हे भरद्वाज नमस्येभिः स्तुत्यैः शूषैः बलैः शुषमिति बलनामसु पाठात् सुम्रेभिः सुखैश्च सर्वैश्चकाना स्तुतौ कायतिः शब्दकर्मा तस्य लिटः कानचि रूपमिदं ता तौ इन्द्रावरुणौ गृणीहि स्तुहि । अन्यः तयोरन्यइन्द्रः वृत्रं वृत्रनामकमसुरं वज्रेण हन्ति । अन्योवरुणः विप्रः प्राज्ञः वृजनेषु स्तोतॄणामुपद्रवेषु रक्षितुं शवसा बलेन सिषक्ति संगच्छते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११