मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ४

संहिता

ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे॑ दे॒वासो॑ न॒रां स्वगू॑र्ताः ।
प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ॥

पदपाठः

ग्नाः । च॒ । यत् । नरः॑ । च॒ । व॒वृ॒धन्त॑ । विश्वे॑ । दे॒वासः॑ । न॒राम् । स्वऽगू॑र्ताः ।
प्र । ए॒भ्यः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वा । द्यौः । च॒ । पृ॒थि॒वि॒ । भू॒त॒म् । उ॒र्वी इति॑ ॥

सायणभाष्यम्

नरां नृणां मनुष्याणां मध्ये ग्राश्च स्त्रियश्च मेना ग्रा इति स्त्रीणामिति यास्कवचनात् । नरश्च पुरुषाश्च विश्वे सर्वे देवासो देवाः देवास इत्यत्र पुमान् स्त्रियेत्येकशेषात् देव्यश्च देवाश्च देवास इति निर्देशः पुंवन्निर्देशः स्वगूर्ताः स्वयमुद्यताः यद्यदा ववृधन्त स्तुतिभिर्वर्ध- यन्ते । तदा हे इन्द्रावरुणौ महित्वा महत्वयुक्तौ एभ्यः स्तोतृभ्यः प्रभुतं प्रभवतं हे द्यौः पृथिवि च उभे उर्वी विस्तीर्णे युवां एभ्यः प्रभूतमित्यनुषंगः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११