मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ५

संहिता

स इत्सु॒दानु॒ः स्ववाँ॑ ऋ॒तावेन्द्रा॒ यो वां॑ वरुण॒ दाश॑ति॒ त्मन् ।
इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ॥

पदपाठः

सः । इत् । सु॒ऽदानुः॑ । स्वऽवा॑न् । ऋ॒तऽवा॑ । इन्द्रा॑ । यः । वा॒म् । व॒रु॒णा॒ । दाश॑ति । त्मन् ।
इ॒षा । सः । द्वि॒षः । त॒रे॒त् । दास्वा॑न् । वंस॑त् । र॒यिम् । र॒यि॒ऽवतः॑ । च॒ । जना॑न् ॥

सायणभाष्यम्

हे इन्द्रा इन्द्रौ वरुणा हे वरुणौ इतरेतरयोगादुभयत्रद्विवचनप्रयोगः वरुणेत्यत्र संहितायां ह्रस्वश्छान्दसः वां युवाभ्यां यो यजमानः त्मन् आत्मनैव दाशति हवींषि ददाति । स इत् स एव सुदानुः शोभनदानो भवति । स्ववान् धनवांश्च ऋतावा यज्ञवांश्च भवति । किं च सः दास्वान् दानवान् द्विषो द्वेष्टुः इषा अन्नेन जयलब्देन सह तरेत् प्राप्येत् । अपि च रयिं धनं रयिवतो धनवतो जनान् पुत्रांश्च वंसत् संभजेत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११