मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ६

संहिता

यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् ।
अ॒स्मे स इ॑न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥

पदपाठः

यम् । यु॒वम् । दा॒शुऽअ॑ध्वराय । दे॒वा॒ । र॒यिम् । ध॒त्थः । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।
अ॒स्मे इति॑ । सः । इ॒न्द्रा॒व॒रु॒णौ॒ । अपि॑ । स्या॒त् । प्र । यः । भ॒नक्ति॑ । व॒नुषा॑म् । अश॑स्तीः ॥

सायणभाष्यम्

देवा देवौ स्तूयमानौ हे इन्द्रावरुणौ युवं युवां दाश्वध्वराय दत्तहविष्काय वसुमन्तं धनानुबन्धिनं पुरुक्षुं बह्वन्नं पूर्णयशस्कं वा यं यादृशं रयिं धनं धत्थः प्रयच्छथः योपि च वनुषां हिंसकानां अशस्तीः प्रकीर्तीः शत्रुकृतान्ययशांसीत्यर्थः । प्रभनक्ति प्ररुजति । सतादृशोरयिः अस्मे अस्मासु स्यात् भूयात् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२