मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ७

संहिता

उ॒त नः॑ सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या॑त् ।
येषां॒ शुष्म॒ः पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥

पदपाठः

उ॒त । नः॒ । सु॒ऽत्रा॒तः । दे॒वऽगो॑पाः । सू॒रिऽभ्यः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । र॒यिः । स्या॒त् ।
येषा॑म् । शुष्मः॑ । पृत॑नासु । सा॒ह्वान् । प्र । स॒द्यः । द्यु॒म्ना । ति॒रते॑ । ततु॑रिः ॥

सायणभाष्यम्

उतापि च इन्द्रावरुणा हे इन्द्रावरुणौ सूरिभ्यः स्तोतृभ्यः नोस्मभ्यं सुत्रात्रः सुरक्षः देवगोपाः देवा गोपा गोप्तारो यस्य सतथाविधः रयिर्धनं स्यात् भूयात् । किं च यषोमस्माकं शुष्मो बलं पृतनासु युद्धेषु साह्वान् शत्रूणाममिभविता ततुरिः हिंसकश्च सन् द्युम्ना यशांसि सद्यएव प्रतिरथे सम्यक् तिरस्कुर्यात् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२