मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ८

संहिता

नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ॑श्रव॒साय॑ देवा ।
इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ॥

पदपाठः

नु । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । गृ॒णा॒ना । पृ॒ङ्क्तम् । र॒यिम् । सौ॒श्र॒व॒साय॑ । दे॒वा॒ ।
इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्धः॑ । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥

सायणभाष्यम्

हे इन्द्रावरुणा इन्द्रावरुणौ गृणाना स्तूयमानौ युवां नोस्मभ्यं सौश्रवसाय सुश्रवसोभावः सौश्रवसं तस्मै सुश्रवस्त्वाय रयिं धनं नु क्षिप्रं पृंक्तं प्रयच्छतम् । किं च देवा हे देवौ महिनस्य महतोर्युवयोः शर्धोबलं इत्था इत्थं गृणन्तः स्तुवन्तः वयं दुरिता दुरितानि नावा अपोन उदकानीव तरेम ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२