मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् १०

संहिता

इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता ।
यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥

पदपाठः

इन्द्रा॑वरुणा । सु॒त॒ऽपौ॒ । इ॒मम् । सु॒तम् । सोम॑म् । पि॒ब॒त॒म् । मद्य॑म् । धृ॒त॒ऽव्र॒ता॒ ।
यु॒वोः । रथः॑ । अ॒ध्व॒रम् । दे॒वऽवी॑तये । प्रति॑ । स्वस॑रम् । उप॑ । या॒ति॒ । पी॒तये॑ ॥

सायणभाष्यम्

इन्द्रावरुणा हे इन्द्रावरुणौ सुतपौ सुतस्य सोमस्य पातारौ युवां मद्यं मदकरं सुतमभिषुतमिमं सोमं पिबतं किं च धृतव्रता हे धृतकर्माणौ युवोः युवयोः रथः अध्वरमुद्दिश्य देववीतये देवानां पानार्थं पीतये युवयोरपि सोमपानार्थं स्वसरं मार्गं प्रत्युपयाति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२