मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६८, ऋक् ११

संहिता

इन्द्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्ण॒ः सोम॑स्य वृष॒णा वृ॑षेथाम् ।
इ॒दं वा॒मन्ध॒ः परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥

पदपाठः

इन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ।
इ॒दम् । वा॒म् । अन्धः॑ । परि॑ऽसिक्तम् । अ॒स्मे इति॑ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒ये॒था॒म् ॥

सायणभाष्यम्

हे इन्द्रावरुणा इन्द्रावरुणौ वृषणा कामानां वर्षितारौ युवां मधुमत्तमस्य अतिशयेन मधुमन्तं रसवन्तं वृष्णोवर्षितारं सोमस्य सोमं आवृ- षेथां अश्नीतं तथा च शतपथब्राह्मणं-यथाभागमावृषायध्वमिति । यथाभागमश्नीतेत्येवैतदाहेति । वां युवयोरर्थे इदमन्धः सोमरूपमन्नं अस्मे अस्माभिः परिषिक्तं पात्रेषु अतः आसद्योपविश्यास्मिन्बर्हिषि यज्ञे मादयेथां सोमपानेनेतिशेषः ॥ ११ ॥

संवांकर्मणेत्यष्टर्चमष्टमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावैष्णवं अनुक्रम्यते च-संवामष्टावैन्द्रावैष्णवमिति । उक्थे तृतीयसवनेच्छा- वाकशस्त्रे एतत्सूक्तं सूत्र्यते हि-संवांकर्मणेन्द्राविष्णूमदपतीमदानामिति याज्येति । सोमातिरेके प्रातःसवने नैमित्तिके शस्त्रे परिहिते सति गाणगारिमते संवामिति तस्य शस्त्रयाज्या सूत्रितं च-इन्द्रावैष्णव्येति गाणगारिर्दैवतप्रधानत्वात् संवांकर्मणासमिषाहिनोमीति । सोमातिरेके माध्यंदिनसवने याविश्वासामित्येषा शस्त्रयाज्या सूत्रितं च- याविश्वासांजनितारामतीनामि तियाज्येति । उक्थे तृतीयसव- नेच्छावाकस्येन्द्राविष्णूपिबतमितिप्रस्थितयाज्या सूत्रितंच इन्द्राविष्णूपिबतंमध्वोअस्येमंस्तोममर्हतेजातवेदसइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२