मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६९, ऋक् १

संहिता

सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभि॑ः पा॒रय॑न्ता ॥

पदपाठः

सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य ।
जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥

सायणभाष्यम्

हे इन्द्राविष्णू वां युवां कर्मणा स्तोत्रेणा इषा हविषा च संहिनोमि सम्यक् प्रेरयामि । अपसः कर्मणः अस्य उक्थस्य पारे समाप्तौ यज्ञं जुषेथां सेवेथाम् । किं च अरिष्टैः अनुपद्रवैः पथिभिर्मार्गैः नोस्मान् पारयन्ता पारं नयन्तौ युवां द्रविणं धनं धत्तमस्मभ्यं दत्तं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३