मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६९, ऋक् २

संहिता

या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ ।
प्र वां॒ गिरः॑ श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥

पदपाठः

या । विश्वा॑साम् । ज॒नि॒तारा॑ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति॑ । क॒लशा॑ । सो॒म॒ऽधाना॑ ।
प्र । वा॒म् । गिरः॑ । श॒स्यमा॑नाः । अ॒व॒न्तु॒ । प्र । स्तोमा॑सः । गी॒यमा॑नासः । अ॒र्कैः ॥

सायणभाष्यम्

या यौ प्रसिद्धाविन्द्राविष्णू विश्वासां सर्वासां मतीनां स्तुतीनां जनितारा जनितारौ जनजनने इत्यस्माद्धातोस्तृचीदं रूपं यद्वा जनी प्रादुर्भावे इत्यस्माद्धातोरेव तृचि जनितामंत्रे इति नोपातनाण्णिलोपः कलशा कलशौ सोमधाना सोमस्य निधानभूतौ च स्याताम् । अथ प्रत्यक्षस्तुतिः हे इन्द्राविष्णू वां युवां शस्यमाना अच्चार्यमाणाः श्स्त्ररूपाः गिरोवाचः प्रावन्तु प्राप्नुवन्तु अर्कैः स्तोतृभिः गीयमानासः गीयमानाः स्तोमासः स्तोमाः स्तोत्राणि च प्रावन्तु प्राप्नुवन्तु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३