मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६९, ऋक् ३

संहिता

इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना ।
सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥

पदपाठः

इन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना ।
सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥

सायणभाष्यम्

हे इन्द्राविष्णू मदानां सोमानां मदपती स्वामिनौ मदपती इत्यत्रमदशब्दोनुवादः द्रविणो द्रविणानि धनान्यपि द्रविणा उ इति पदद्वयमे- कीभूय द्रविणौ इति निष्पन्नं पदम् । दधाना ददानौ युवां सोममभि आयातं मतीनां स्तोतॄणां स्तोमासः स्तोत्राणि उक्थैः शस्त्रैः सार्धं शस्यमानासः उषार्यमाणाः वां युवां अक्तुभिः तेजोभिः समजन्तु समर्धयन्तुसंसमितिद्विरुक्तिरावरार्था ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३