मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६९, ऋक् ४

संहिता

आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इन्द्रा॑विष्णू सध॒मादो॑ वहन्तु ।
जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥

पदपाठः

आ । वा॒म् । अश्वा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । इन्द्रा॑विष्णू॒ इति॑ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।
जु॒षेथा॑म् । विश्वा॑ । हव॑ना । म॒ती॒नाम् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । गिरः॑ । मे॒ ॥

सायणभाष्यम्

हे इन्द्राविष्णू वां युवां अभिमातिषाहः अभिमातीनां हिंसकानां अभिभवितारः सधमादः सहमाद्यन्तः अश्वासः अश्वाः आवहन्तु मतीनां स्तोतॄणां विश्वा विश्वानि हवना हवनानि स्तोत्रेणि जुषेथां सेवेथां तदर्थं मे मदीयानि ब्रह्माणि स्तोत्राणि गिरः शस्त्ररूपा वाचश्च उपश्रृणतं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३