मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६९, ऋक् ६

संहिता

इन्द्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या ।
घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थ॑ः क॒लशः॑ सोम॒धानः॑ ॥

पदपाठः

इन्द्रा॑विष्णू॒ इति॑ । ह॒विषा॑ । व॒वृ॒धा॒ना । अग्र॑ऽअद्वाना । नम॑सा । रा॒त॒ऽह॒व्या॒ ।
घृता॑सुती॒ इति॒ घृत॑ऽआसुती । द्रवि॑णम् । ध॒त्त॒म् । अ॒स्मे इति॑ । स॒मु॒द्रः । स्थः॒ । क॒लशः॑ । सो॒म॒ऽधानः॑ ॥

सायणभाष्यम्

घृतासुती घृतान्नाविन्द्राविष्णू युवां हविषा सोमेन वावृधाना वर्धमानौ अग्रद्वाना सोमाग्रस्य शुक्रस्यात्तारौ नमसा नमस्कारेण रातहव्या दत्तहविष्कौ यजमानैरस्मे अस्मम्यं द्रविणं धनं धत्तं प्रयच्छतं किं च युवां समुद्रः उदधिरिव स्थो भवथः । यतः सोमधानः सोमनिधान- कलशोभवथः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३