मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६९, ऋक् ७

संहिता

इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् ।
आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥

पदपाठः

इन्द्रा॑विष्णू॒ इति॑ । पिब॑तम् । मध्वः॑ । अ॒स्य । सोम॑स्य । द॒स्रा॒ । ज॒ठर॑म् । पृ॒णे॒था॒म् ।
आ । वा॒म् । अन्धां॑सि । म॒दि॒राणि॑ । अ॒ग्म॒न् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥

सायणभाष्यम्

हे दस्रा दर्शनीयाविन्द्राविष्णू युवां मध्वः अस्य मदकरं सोमस्य सोमं पिबतं किं च जठरं उदरं पृणेथां सोमेन पूरयेथाम् । हे इन्द्राविष्णू वां युवां मदिराणि मदकराणि अंधांसि सोमात्मकान्यन्नानि आग्मन् अभिगच्छन्तु । मे मदीयानि ब्रह्माणि स्तोत्राणि हवं मदीयमाह्वानं चोपशृणतं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३