मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६९, ऋक् ८

संहिता

उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनो॑ः ।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥

पदपाठः

उ॒भा । जि॒ग्य॒थुः॒ । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ।
इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥

सायणभाष्यम्

हे इन्द्राविष्णू उभा उभौ युवां जिग्यथुः शत्रूनजैष्टं नपराजयेथे न पुनः कदाचन पराजयेथे एनोरेनयोर्युवयोर्मध्ये कतरश्चन एकतरोपि न पराजिग्ये न पराजैष्ट हे विष्णो इन्द्राश्च त्वं च युवां यत् यद्वस्तु प्रत्यपस्पृधेथां असुरैः सहास्पृधेथां त्रेधा लोकवेदवागात्मना त्रिधास्थितं सहस्रममितं च वितदैरयेथां व्यक्रमेथामित्यर्थः । तथा च ब्राह्मणं-उभाजिग्यथुरित्यच्छावाकस्योभौहितौ जिग्यथुर्नपराजयेथे नपराजि- ग्यइतिनहितयोः कतरश्चनपराजिग्यइन्द्रश्चविष्णोयदपस्पृधेथां त्रेधासहस्रंवितदैरयेथामितीन्द्रश्चह वैविष्णुश्चासुरैर्युयुधातेतान्हस्मजि- त्वोचतुः कल्पामहाइतितेहतथेत्यसुराऊचुः सोब्रवीदिन्द्रोयावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथयुष्माकमितरदितिसइमन्लोका- न्विचक्रमेथोवाचंतदाहुः किंतत्सहस्रमितीमेलोकाइमे वेदाअथोवागितिब्रयादैरयेथामैरयेथामिति । यद्वा तत्सहस्रं गवां सहस्रं त्रेधा व्यैर- येथामित्यर्थः ॥ ८ ॥

घृतवतीभुवनानामितिषळृचंनवमंसूक्तं भरद्वाजस्यार्षं जागतं द्यावापृथिवीदेवताकं तथा चानुक्रम्यते-घृतवतीषड्द्यावापृथिवीयं जागतमिति आभिप्लविके पंचमेहनि वैश्वदेवशस्त्रे आद्यस्तृचोद्यावापृथिव्यनिविद्धानार्थः सूत्रितंच-घृतवती भुवनानामभिश्रियेन्द्रऋभु- भिर्वाजवद्भिरिति तृचाविति । बृहस्पतिसवे वैश्वदेवशस्त्रे एषतृचः सूत्रितं च-आभिप्लविके तृतीयेहनि वैश्वदेवशस्त्रे घृतेनद्यावापृथिवी इति तिस्रोद्यावापृथिवीयनिविद्धानार्थाः सूत्रितंच-घृतेनद्यावापृथिवीइति तिस्रोनश्वोजातइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३